|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.286. अध्यायः 286
Mahabharata - Vana Parva - Chapter Topics
रामलक्ष्मणादीनां रावणेन्द्रजिदादिभिः सह द्वन्द्वयुद्धम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-286-0x(2711)(26979)
ततो निविशमानांस्तान्सैनिकान्रावणानुगाः।
अभिजग्मुर्गणाऽनके पिशाचक्षुद्ररक्षसाम् ॥ 3-286-1(26980)
पर्वणः पतनो जम्भः खरः क्रोधवशो हरिः।
प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः ॥ 3-286-2(26981)
ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम्।
अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः ॥ 3-286-3(26982)
ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः।
निहताः सर्वशो राजन्महीं जग्मुर्गतासवः ॥ 3-286-4(26983)
अमृष्यमाणः सबलो रावणो निर्ययावथ।
राक्षसानां बलैर्घोरैः पिशाचानांच संवृतः ॥ 3-286-5(26984)
युद्धशास्त्रविधानज्ञ उशना इव चापरः।
व्यूह्यचौशनसं व्यूहं हरीनभ्यवहारयत् ॥ 3-286-6(26985)
राघवस्तु विनिर्यान्तं व्यूढानीकं दशाननम्।
बार्हस्पत्यं विधं कृत्वा प्रतिव्यूह्य ह्यदृश्यत ॥ 3-286-7(26986)
समेत्य युयुधे तत्र ततो रामेण रावणः।
युयुधे लक्ष्मणश्चापि तथैवेन्द्रजिता सह ॥ 3-286-8(26987)
विरूपाक्षेण सुग्रीवस्तारेण च निस्वर्वटः।
पौण्ड्रेण च नलस्तत्र पदुशः पनसेन च ॥ 3-286-9(26988)
विषह्यं यं हि यो मेने स स तेन समेयिवान्।
युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः ॥ 3-286-10(26989)
स संप्रहारो ववृधे भीरूणां भयवर्धनः।
रोमसंहर्षणो घोरः पुरा देवासुरे यथा ॥ 3-286-11(26990)
रावणो राममानर्च्छच्छक्तिशूलासिवृष्टिभिः।
निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः ॥ 3-286-12(26991)
तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः।
इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः ॥ 3-286-13(26992)
विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम्।
खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः ॥ 3-286-14(26993)
तेषां बलवतामासीन्महास्त्राणां समागमः।
विव्यथुः सकला येन त्रयो लोकाश्चराचराः ॥ 3-286-15(26994)
इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि षडशीत्यधिकद्विशततमोऽध्यायः ॥ 286 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-286-1 गणा अनेके इति च्छेदः ॥ 3-286-3 अन्तर्धानवधमन्तर्धानशक्तेर्नाशम् ॥ 3-286-6 हरीन् वानरान्। अभ्यवहारयदावेष्टितवान् ॥ 3-286-12 आनर्च्छदपीडयत् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|